|
|
 |
 |
|
|
१५ मौसलपर्व.jpg)
मौसलपर्व - अध्याय 006
॥ श्रीः ॥
15.6. अध्यायः 006
Mahabharata - Mausala Parva - Chapter Topics
दारुकेण हास्तिनपुरमेत्य पाण्डवेषु सर्वयादवक्षयनिवेदनम्॥ 1 ॥ अर्जुनेन द्वारकामेत्य रुक्मिण्यादिपरिसान्त्वनपूर्वकं वसुदेवगृहंप्रति गमनम्॥ 2 ॥
Mahabharata - Mausala Parva - Chapter Text
वैशम्पाय उवाच।
दारुकोपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान्।
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान्॥ 15-6-1(97053)
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजान्धककौकुरान्।
पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन्॥ 15-6-2(97054)
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा।
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत्॥ 15-6-3(97055)
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो।
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम्॥ 15-6-4(97056)
याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन्।
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः॥ 15-6-5(97057)
षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहाः।
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम्॥ 15-6-6(97058)
तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः।
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोभिवीक्षितुम्॥ 15-6-7(97059)
स तां वृष्ण्यन्धकजलां हयमीनां रथोडुपाम्।
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम्॥ 15-6-8(97060)
रत्नशैवलसंघातां वज्रप्राकारमालिनीम्।
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम्॥ 15-6-9(97061)
रामकृष्णमहाग्राहां द्वारकां सरितं तदा।
कालपाशग्रहां भीमां नदीं वैतरणीमिव॥ 15-6-10(97062)
ददर्श वासविर्धीमान्विहीनां वृष्णिपुङ्गवैः।
गतश्रियं विरानन्दां पद्मिनीं शिशिरे यथा। 15-6-11(97063)
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः।
सस्वनं बाष्पमुत्सृज्य निपात महीतले॥ 15-6-12(97064)
सात्राजिती ततः सत्या रुक्मिणी च विशांपते।
अभिपत्य प्ररुरुदुः परिवार्य धनंजयम्॥ 15-6-13(97065)
ततस्तं काञ्चने पीठे समुत्ताप्योपवेश्य च।
अभिनन्द्य महात्मानं परिवार्योपतस्थिरे॥ 15-6-14(97066)
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः।
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात्॥ ॥ 15-6-15(97067)
इति श्रीमन्महाभारते मौसलपर्वणि षष्ठोऽध्यायः॥ 6 ॥
Mahabharata - Mausala Parva - Chapter Footnotes
7-6-14 अब्रुवन्त्यो महामानमिति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|